

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्यां भाषायां ज्ञान-विज्ञानयोः अनेके ग्रंथाः लिखिताः;ये आधुनिकस्य विज्ञानस्यापि अध्ययने सहायकाः सन्ति। न केवलं भारतस्य सर्वासु भाषासु अस्याः प्रभावः स्पष्टतया दृश्यते अपितु‘अवेस्ता’आदि वैदेशिकभाषास्वपि वर्तते। अतएव इमां भाषां ज्ञात्वा वयं अन्याः भाषाः अपि सारल्येन ज्ञातुं शक्नुमः। नवशब्दनिर्माणे अस्याः भाषायाः सामर्थ्यमनुपमम् वर्तते। संस्कृतभाषायाः अध्ययनेन वयं भारतस्य प्राचीनतमां संस्कृतिम् अपि ज्ञातुं शक्नुमः। एषः पाठ्यक्रमः सम्प्रेषण-आधरितोSस्ति। एषः माध्यमिक-स्तरीयछात्राणां मार्गदर्शनार्थं निर्मितोSस्ति। अनेन छात्राः संस्कृतभाषायां निहितनैतिकमूल्यैः अपि परिचिताः भविष्यन्ति स्वजीवने च तानि धरयितुं समर्थाः भविष्यन्ति। राष्ट्रनिर्माणेSपि ते अधिकाधिकं सहायकाः भविष्यन्ति।