Secondary : Sanskrit Viyakaran (246)

0
Swayam
Free Online Course
English
Paid Certificate Available
24 weeks long
selfpaced

Overview

भावविनिमयमाध्यमं हि भाषा। भाषायाः उन्नतिः समाजस्य उन्नतिं द्योतयति। समाजः उन्नतान् विविधान् भावान् प्रकटयितुम्भाषाम् व्यवहरति। यदि भाषा त्रुटिता स्यात् तर्हि भावप्रकटने काठिन्यं भवति एव। तदा भाषाकोविदाः भाषाव्यवहारकर्तारः च भाषायांपरिवर्तनं कुर्वन्ति। भाषाम् उपयोगिनीं विदधति। क्रमशः भाषायाः परिवर्तनस्य नियमाः जायन्ते। ईदृशानां भाषानियमानां संकलनमेवव्याकरणम्। प्रतिदेशं भाषा भिन्ना। प्रतिराज्यं भाषा भिन्ना। अत एव अन्यैः सह भावविनिमयः दुष्करः। एकभाषासु विद्यमानाद् उत्तमाद्वाङम्याद् अन्यभाषिका वञ्चिता भवन्ति।अयं महान् अन्तरायः वर्तते। अतः तथा काचित् महीयसी पवित्रा च भाषा ग्राह्या,सकलभाषाः यस्याः सन्ततिस्वरूपाः। संस्कृतमेव सा भाषा। सा एव भाषासमस्यानाम् एकमेव समाधानम्। संस्कृतभाषायाः सुदृढंव्याकरणमस्ति। नवीनशब्दनिर्माणसामर्थ्यमपि अस्ति। दशसहस्रवर्षपूर्वतनं ग्रन्थम् वयम् अद्यापि पठितुं बोद्धुं शक्नुमः यदि वयं संस्कृतंजानीमः। अद्य अस्माभिः निर्मितं साहित्यं सहस्रवर्षोत्तरमपि जनाः पठितुं शक्ष्यन्ति यदि वयं संस्कृतेन लेखनं कुर्मः। अतः विश्वस्मिन्विश्वे संस्कृतमेव सर्वश्रेष्ठा भाषा। संस्कृतशिक्षया संस्कृतशब्दानाम् उच्चारणमात्रं जातिः गौरवान्विता शक्तिभृता च भवति। भारते यःसंस्कृतं जानाति तं विरुद्ध्य न कोऽपि वक्तुं शक्नोति। धर्मरहस्यं काव्यरहस्यं दर्शनरहस्यं च अस्यां भाषायां निबद्धमस्ति। यो भाषांजानाति तस्य पुरः ज्ञानभाण्डार उद्वाटितः तिष्ठति। न केवलमेतावन्मात्रम्। स्वामी विवेकानन्दः उक्तवान् - निम्नजातीयान् वदामि -युष्माकम् अवस्थायाः उन्नतिसाधनस्य एकमात्रोपायः संस्कृतभाषाशिक्षणम्।समाजे जातिभेदस्य नाशोऽपि संस्कृताध्ययनेन भवेत्।अतः न केवलम् उच्चजातीनाम् कृते अपि तु सर्वेषां कृते संस्कृतम् अत्यन्तम् उपकारकम् अस्ति। जगति प्रायः सर्वाः भाषाः संस्कृतभाषात एव समुद्रूताः। सर्वासामपि मूलम् इयं भाषा। भारतस्य प्राचिनेतिहासस्यअध्ययनमपि दैशिका दैदेशिकाः च विद्वांसः चिकीर्षन्ति। परन्तु संस्कृतभाषाज्ञानं विना पङ्गुवत् ते भवन्ति।भाषा राज्यनिर्माणकाले राज्यभेदानां कारणम् अभवत्। देशे विभाजनस्य कारणं प्रादेशिकभाषाः। परन्तु संस्कृतम् राषटैक्यस्य कारणमस्ति। बौद्धानां जैनानां हिन्दूनां च मूलग्रन्थाः, नैके दार्शनिकग्रन्थाः, काव्यानि अस्यामेव भाषायां सन्ति। अतः इयं केवलंकस्यचित् एकस्य धर्मस्य भाषा इति वचनं मूर्खजल्पनम्।काणादं पाणिनीयं च सर्वशास्नोपकारकम् इति प्राचिनोक्तिः। अर्थात् आन्वीक्षिकी विद्या (न्यायशास्त्रम्), पाणिनीयं व्याकरणम्अन्येषां सर्वेषामपि शस्त्राणाम् उपकारकमस्ति। अतः संस्कृते यां कामपि शाखां पिपठिषुः न्यायं व्याकरणं च नूनं पठेत्। अतःसंस्कृतजिज्ञासूनां कृते व्याकरणस्य आत्यन्तिकीम् उपयोगिताम् अभिलक्ष्य इदं व्याकरणम् पाठ्यविषयत्वेन निर्धारितमस्ति।महर्षिः पतञ्जलिः अभ्युपगच्छति यत् संस्कृतव्याकरणज्ञानपूर्वकम् यदि संस्कृतभाषाप्रयोगः क्रियते तर्हि प्रयोगकर्ता पुण्यंलभते। अयमपि व्याकरणाध्ययनस्य लाभोऽस्ति। अथापि व्याकरणम् अध्येयम्।भाषया भावविनिमयकाले क्वचिदपि त्रुटिः भवति चेत् विघ्नः अपि भवितुमर्हति। शत्रवो मित्राणि भवितुमर्हन्ति, मित्राणिशत्रवो भवितुमर्हन्ति। अतः भाषाया अनन्यसाधारणं गुरुत्वमस्ति एव। तथाहि सुभाषितम् -

यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम्।

स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥

Syllabus

COURSE LAYOUTWeek 1व्याकरणपरिचयःWeek 2संज्ञाप्रकरणम् - १Week 3संज्ञाप्रकरणम् - २Week 4संज्ञाप्रकरणम् – ३Week 5परिभाषाप्रकरणम्Week 6अच्सन्धौ यण्-अयवायावादिसन्धिःWeek 7अच्सन्धौ एकादेशः प्रकृतिभाश्चWeek 8हल्सन्धौ रुत्व-श्चुत्वादिसन्धिःWeek 9हल्सन्धौ अनुस्वारसन्धिः विसर्गसन्धिश्चWeek 10अजन्तपुंलिङ्गे अदन्तशब्दरूपाणिWeek 11अजन्तपुंलिङ्गे अदन्तशब्दानां सर्वनाम्नां च रूपाणिWeek 12अजन्तपुंलिङ्गे इकारादिशब्दानां रूपाणिWeek 13अजन्तस्त्रीलिङ्गे रमानदीशब्दरूपाणिWeek 14अजन्तनपुंसकलिङ्गम्Week 15हलन्तप्रकरणे लिह्-दुह् इत्यादिशब्दानां रूपाणिWeek 16हलन्तप्रकरणे तत् इत्यादिशब्दानां रूपाणिWeek 17हलन्तप्रकरणे महत् इत्यादिशब्दानां रूपाणिWeek 18कारकसामान्यपरिचयः, प्रथमाकारकविभक्तिःWeek 19द्वितीयाकारकविभक्तिः -१Week 20द्वितीयाकारकविभक्तिः - २Week 21कारकविभक्तौ तृतीया, चतुर्थी चWeek 22कारकविभक्तौ पञ्चमी षष्ठी सप्तमी चWeek 23उपपदविभक्तौ द्वितीया, तृतीया, चतुर्थी, पञ्चमी चWeek 24उपपदविभक्तौ षष्ठी, सप्तमी चउपपदविभक्तौ षष्ठी, सप्तमी चWeek 25कृत्यप्रकरणम्पूर्वकृदन्तप्रकरणम्-१Week 26पूर्वकृदन्तप्रकरणम्-२उत्तरकृदन्तप्रकरणम्

Taught by

Dr. R. N. Meena