

संस्कृते काव्यसम्पत्तिः सागरवत् अपारा अमूल्या च वर्तते। तत्र अस्माकं सनातनग्यानराशिः तदात्मकं जीवनं च प्रतिबिम्बितंवर्तते। कवीनां काव्यानाम् अलङ्कारशास्त्रस्य च अध्ययने छात्रस्य भूमिका अपेक्षिता। काव्यराशेः मूलं स्वरूपं वेदे एव दृश्यते।साहित्यस्य प्रवेशार्थ वेदादिवाङ्मयस्य परिचयः आवश्यकः अस्ति। अपि च वेदेन उपदिश्टं तत्त्वमेव काव्येन प्रकटीक्रियते। वेदस्तुषडङ्गसहितः अस्ति। अतः वेदस्य षडङ्गानाञ्च परिचयः अपि आवश्यकः। वेदकाव्ययोः मध्यवर्ति पुराणसाहित्यम्। तस्मात्पुराणस्यापि सामान्यपरिचयः आवश्यकः। स च अत्र अस्ति। एवं वेदस्य पुराणस्य च परिचयं प्राप्य काव्यस्य प्रवेशः भवति।संस्कृतिर्नाम सुपरिषकृता जीवनपद्धतिः यया क्रमशः आत्मोद्धारः सिद्ध्यति। भारतीयसनातनसंस्कृतिः चतुर्भिः पुरुषार्थैःपरिकल्पिता वर्तते। धर्मः अर्थः कामः मोक्षः इति चत्वारः पुरुषार्थाः। कामो नाम लौकिकजीवनसन्तृप्तिः सुखं वा। अर्थो नामतादृशसुखलाभार्थम् अपेक्षितानि वस्त्र-आहार-धन-क्षेत्रादीनि जीवनसाधनानि। धर्मो नाम अर्थानामर्जने तद्वारा सुखलाभे शास्त्रोक्तःनियमविशेषः। मोक्षः अनन्तः शाश्वतानन्दः। एतेषां विवेके वेदः परमं प्रमाणम्।कवेः कर्म काव्यम् इति आलङ्कारिका वदन्ति। तच्च रमणीयं शब्दार्थयुगलम् ,रसात्मकं वाक्यम् इत्यपि अन्यान्यविद्वांसःवदन्ति। अस्मत्परम्परायां जीवनविवेकाय शास्त्रमार्गः इव कव्यमार्गोऽपि अतीव आदृतो वर्तते।वेदः प्रभुसम्मितः इत्युच्यते। पुराणं मित्रसम्मितम् उत्युच्यते। काव्यं हि कान्तासम्मितं भवति। कान्तासम्मितं नामकान्तासदृशम् इत्यर्थः। कान्ता नाम प्रिया भार्या इत्यर्थः। (यदा) लोके साध्वीं कुशलां च कान्तां किमपि जिग्यासमानः पृच्छति। तदासा साक्षात् अभिप्रायवाचकं वाक्यं परित्यजति। ततः स्मित-कटाक्ष-मुखावनमनादिचेषटाविशेषपुरःसरं परोक्षतः स्वाभिप्रायसूचकैःवचनैः अभिमतार्थं ग्यापयन्ती तत्र कान्तं प्रवर्तयति। यथा किम् आम्रफलम् आस्वादयसि उत द्राक्षाफलम् इति कान्तः कान्तां पृच्छति।तदा आम्रफलमास्वादयामि इति साक्षात् न वदति। आम्रफलं मधुरं परिमलयुक्त्तं विविधवर्णरजितं भवति इति वदति। तेन एतदेव उक्तंभवति यत् अहम् आम्रफलम् आस्वादयितुमिच्छामि इति। एवं कान्तानां यथा परोक्षतः स्वाभिप्रायाभिव्यञनशैली वचने भवति तथाकाव्यस्यापि भवति। अतः काव्यं कान्तासम्मितम् इति प्रसिदध्म्। कान्तावचनं यथा सरसं मननोहरं भवति तथा काव्यमपि सरसरमणीयं भवति येन सहृदयहृदयम् आकृषटं भवति। एतस्मात् कारणात् वेदात् पुराणात् च विलक्षणं भवति।ईदृशनां काव्यानाम्, कवीनाम्, काव्यशास्त्रस्य च परिचयः छात्राणाम् भवतु इति धिया संस्कृतसाहित्यम् नाम पत्रं पठ्यत्वेनयोज्यते। (Communications Skill) भावविनिमयकौशलम् पुरा अद्यापि च गुरुत्वम् आवहति। स्वाभिप्रायः कथं साक्षात् परोक्षतःवा प्रकटयितुं शक्यः इति काव्यात् ज्ञायते। इत्थं काव्याध्ययनस्य बहूनि प्रयोजनानि सन्तीति औचित्यम् आवहति यद् सर्वश्रेष्ठानांकवीनाम् काव्यानि पठनीयानि इति।